|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.60. अध्यायः 060
Mahabharata - Karna Parva - Chapter Topics
गजयुद्धम्॥ 1 ॥ सङ्कुलयुद्धम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-60-0x(4983)(57968)
हस्तिभिस्तु महामात्रास्तव पुत्रेण चोदिताः।
धृष्टद्युम्नं घ्नतेत्याशु क्रुद्धाः पार्षतमभ्ययुः॥ 8-60-1(57969)
प्राच्याश्च दाक्षिणात्याश्च प्रवरा गजयोधिनः।
अङ्गा वङ्गाश्च पुण्ड्राश्च मागधास्ताम्रलिप्तकाः॥ 8-60-2(57970)
मेकलाः कोशला मद्रा दशार्णा निषधास्तथा।
गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत॥ 8-60-3(57971)
शरतोमरनाराचैर्वृष्टिमन्त इवाम्बुदाः।
सिषिचुस्ते ततः सर्वे पाञ्चालबलमाहवे॥ 8-60-4(57972)
तानभिद्रवतो नागान्मदवेगसमुद्धतान्।
विपाठक्षुरनाराचैर्धृष्टद्युम्नो ह्यवीवृषत्॥ 8-60-5(57973)
एकैकं दशभिः ष़ड्भिरष्टाभिरपि पार्षतः।
द्विरदानभिविव्याध क्षिप्रं गिरिनिभाञ्शरैः॥ 8-60-6(57974)
प्रच्छाद्यमानं द्विरदैर्मेघैरिव दिवाकरम्।
पर्ययुः पाण्डुपाञ्चाला नदन्तो ह्यात्तकार्मुकाः॥ 8-60-7(57975)
तान्नागानभिवर्षन्तो ज्यातलत्रविनादिनः।
वीरनृत्यं प्रनृत्यन्तः शूरतालप्रचोदितैः।
नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः॥ 8-60-8(57976)
सात्यकिश्च शिखण्डी च चेकितानश्च वीर्यवान्।
समन्तात्सिषिचुर्वीरा मेघास्तोयैरिवाचलान्॥ 8-60-9(57977)
ते म्लेच्छैः प्रेषिता नागा नरानश्वान्रथानपि।
हस्तैराक्षिप्य ममृदुः पद्भिश्चाप्यतिमन्यवः॥ 8-60-10(57978)
बिभिदुश्च विषाणाग्रैः समाक्षिप्य च चिक्षिपुः।
विषाणलग्नाश्चाप्यन्ये परिपेतुर्विभीषणाः॥ 8-60-11(57979)
प्रमुखे वर्तमानं तु द्विपमङ्गस्य सात्यकिः।
नाराचेनोग्रवेगेन भित्त्वा मर्माण्यताडयत्॥ 8-60-12(57980)
तस्यावर्जितकायस्य द्विरदादुत्पतिष्यतः।
नाराचेनाहनद्वक्षः सात्यकिः सोऽपतद्भुवि॥ 8-60-13(57981)
पुण्ड्रस्यापततो नागं चलन्तमिव पर्वतम्।
सहदेवः प्रसन्नाग्रैर्नाराचैरहनत्त्रिभिः॥ 8-60-14(57982)
विपताकं वियन्तारं विवर्मध्वजजीवितम्।
तं कृत्वा द्विरदं भूयः सहदेवोऽङ्गमभ्ययात्॥ 8-60-15(57983)
सहदेवं तु नकुलो वारयित्वाङ्गमार्दयत्।
नाराचैर्यमदण्डाभैस्त्रिभिर्नागं शतेन तम्॥ 8-60-16(57984)
दिवाकरकप्रख्यानङ्गश्चिक्षेप तोमरान्।
नकुलाय शतान्यष्टौ त्रिधैकैकं तु सोऽच्छिनत्॥ 8-60-17(57985)
तथाऽर्धचन्द्रेण शिरस्तस्य चिच्छेद पाण्डवः।
स पपात हतो म्लेच्छस्तेनैव सह दन्तिना॥ 8-60-18(57986)
अथाङ्गपुत्रे निहते हस्तिशिक्षाविशारदे।
अङ्गाः क्रुद्धा महामात्रा नागैर्नकुलमभ्ययुः॥ 8-60-19(57987)
चलत्पताकैः सुमुखैर्हेमकक्ष्यातनुच्छदैः।
मिमर्दिषन्तस्त्वरिताः प्रदीप्तैरिव पर्वतैः॥ 8-60-20(57988)
मेकलोत्कलकालिङ्गा निषधास्ताम्रलिप्तकाः।
शरतोमरवर्षाणि विमुञ्चन्तो जिघांसवः॥ 8-60-21(57989)
तैश्छाद्यमानं नकुलं निशाकरमिवाम्बुदैः।
परिपेतुः सुसंरब्धाः पाण्डुपाञ्चालसात्यकाः॥ 8-60-22(57990)
ततस्तदभवद्युद्धं रथिनां हस्तिभिः सह।
सृजतां शरवर्षाणि तोमरांश्च सहस्रशः॥ 8-60-23(57991)
नागानां प्रास्फुटन्कुम्भा मर्माणि च नखानि च।
दन्ताश्चैवातिविद्धानां नाराचैर्हेमभूषणैः॥ 8-60-24(57992)
तेषामष्टौ महानागांश्चतुःषष्ट्या सुतेजनैः।
नाराचैः सहदेवस्तान्पातयामास सादिभिः॥ 8-60-25(57993)
अञ्जोगतिभिरायम्य प्रयत्नाद्धनुरुत्तमम्।
नाराचैरहनन्नागान्नकुलः कुलनन्दनः॥ 8-60-26(57994)
ततः पाञ्चालशैनेयौ द्रौपदेयाः प्रभद्रकाः।
शिखण्डी च महानागान्सिषिचुः शरवृष्टिभिः॥ 8-60-27(57995)
ते पाण्डुयोधाम्बुधरैः शत्रुद्विरदपर्वताः।
बाणवर्षैर्हताः पेतुर्वज्रवर्षैरिवाचलाः॥ 8-60-28(57996)
एवं हत्वा तव गजांस्ते पाण्डुरथकुञ्जराः।
द्रुतं सेनां च वर्षन्तो भिन्नकूलामिवापगाम्॥ 8-60-29(57997)
तां ते सेनां समालोड्य पाण्डुपुत्रस्य सैनिकाः।
विक्षोभयित्वा च पुनः कर्णं समभिदुद्रुवुः॥ ॥ 8-60-30(57998)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षष्टितमोऽध्यायः॥ 60 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-60-7 प्रच्छाद्यमानं धृष्टद्युम्नम्॥ 8-60-13 आवर्जितः प्रहारवश्चनेन रक्षितः कायो येन तस्य॥ 8-60-60 षष्टितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|